(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.137. अध्यायः 137
Mahabharata - Vana Parva - Chapter Topics
लोमशेन रैभ्याश्रमंगतं युधिष्ठिरंप्रति यवक्रीतोपाख्यानकथनारम्भः ॥ 1 ॥ भरद्वाजपुत्रेण यवक्रीतेन स्वपितृमित्रे रैभ्ये तत्पुत्रयोरर्वावसुपरावस्वोश्चासूयया निवैवोपदेशं वेदाधिगमाय इन्द्रंप्रति तपश्चरणम् ॥ 2 ॥ इन्द्रनिवारितेनापि यवक्रीतेन बलात्कारेण तस्माद्वरग्रहणम् ॥ 3 ॥ भरद्वाजेन लब्धवरं यवक्रीतंप्रति गर्वेण रैभ्यपीडाप्रतिषेधाय बालध्युपाख्यानकथनम् ॥ 4 ॥
Mahabharata - Vana Parva - Chapter Text

लोमश उवाच। 3-137-0x(2197)(21108)
एषा मधुविला नाम समङ्गा संप्रकाशते।
एतत्कर्दमिलं नाम भरतस्याभिषेचनम् ॥ 3-137-1(21109)
अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिः।
आप्लुतः सर्वपापेभ्यः समङ्गायां व्यमुच्यत ॥ 3-137-2(21110)
एतद्विनशनं कुक्षौ मैनाकस्य नरर्षभ।
अदितिर्यत्रपुत्रार्थं तदन्नमपचत्पुरा ॥ 3-137-3(21111)
एनं पर्वतराजानमारुह्य भरतर्षभाः।
अयशस्यामसंशब्द्यामलक्ष्मीं व्यपनोत्स्यथ ॥ 3-137-4(21112)
एते कनखला राजन्नृषीणां दयिता नगाः।
एषा प्रकाशते गङ्गा युधिष्ठिर यशस्विनी ॥ 3-137-5(21113)
सनत्कुमारो भगवानत्र सिद्धिमगात्पुरा।
आजमीढावगाह्यैनां सर्वपापैः प्रमोक्ष्यसे ॥ 3-137-6(21114)
अपां ह्रदं च पुण्याख्यं भृगुतुन्दं च पर्वतम्।
तूष्णीं गङ्गां च कौन्तेय सानुजः समुपस्पृश ॥ 3-137-7(21115)
आश्रमः स्थूलशिरसो रमणीयः प्रकाशते।
अत्र मानं च कौन्तेय क्रोधं चैव विवर्जय ॥ 3-137-8(21116)
एष रैभ्याश्रमः श्रीमान्पाण्डवेय प्रकाशते।
भारद्वाजो यत्रकविर्यवक्रीतो व्यनश्यत ॥ 3-137-9(21117)
युधिष्ठिर उवाच। 3-137-10x(2198)
कथं युक्तोऽभवदृषिर्भरद्वाजः प्रतापवान्।
किमर्थं च यवक्रीतः पुत्रोऽनश्यत वै मुनेः ॥ 3-137-10(21118)
एतत्सर्वं यथावृत्तं श्रोतुमिच्छामि तत्त्वतः।
कर्मभिर्देवकल्पानां कीर्त्यमानैर्भृशं रमे ॥ 3-137-11(21119)
लोमश उवाच। 3-137-12x(2199)
भरद्वाजश्च रैभ्यश्च सखायौ संबभूवतुः।
तावूषतुरिहात्यन्तं प्रीयमाणौ वनान्तरे ॥ 3-137-12(21120)
रैभ्यस्य तु सुतावास्तामर्वावसुपरावसू।
आसीद्यवक्रीः पुत्रस्तु भरद्वाजस्य भारत ॥ 3-137-13(21121)
रैभ्यो विद्वान्सहापत्यस्तपस्वी चेतरोऽभवत्।
तयोश्चाप्यतुला प्रीतिरभवद्भरतर्षभ ॥ 3-137-14(21122)
यवक्रीः पितरं दृष्ट्वा तपस्विनमसत्कृतम्।
दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघः ॥ 3-137-15(21123)
पर्यतप्यत तेजस्वी मन्युनाऽभिपरिप्लुतः।
तपस्तेपे ततो घोरं वेदज्ञानाय पाण्डव ॥ 3-137-16(21124)
सुसमिद्धे महत्यग्नौ शरीरमुपतापयन्।
जनयामास संतापमिन्द्रस्य सुमहातपाः ॥ 3-137-17(21125)
तत इन्द्रो यवक्रीतमुपगम्य युधिष्ठिर।
अब्रवीत्कस्य हेतोस्त्वमास्थितस्तप उत्तमम् ॥ 3-137-18(21126)
यवक्रीत उवाच। 3-137-19x(2200)
द्विजानामनधीता वै वेदाः सुरगणार्चित।
प्रतिभान्त्विति तप्येहमिदं परमकं तपः ॥ 3-137-19(21127)
स्वाध्यायार्थं समारम्भो ममायं पाकशासन।
तपसा ज्ञातुमिच्छामि सर्वज्ञानानि कौशिक ॥ 3-137-20(21128)
कालेन महता वेदाः शक्या गुरुमुखाद्विभो।
प्राप्तुं तस्मादयं यत्नः परमो मे समास्थितः ॥ 3-137-21(21129)
इन्द्र उवाच। 3-137-22x(2201)
अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसि।
किं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात् ॥ 3-137-22(21130)
लोमश उवाच। 3-137-23x(2202)
एवमुक्त्वा गतः शक्रो यवक्रीरपि भारत।
भूय एवाकरोद्यत्नं तपस्यमितविक्रमः ॥ 3-137-23(21131)
घोरेण तपसा राजंस्तप्यमानो महत्तपः।
संतापयामास भृशं देवेन्द्रमिति नः श्रुतम् ॥ 3-137-24(21132)
तं तथा तप्यमानं तु तपस्तीव्रं महामुनिम्।
उपेत्य बलभिद्देवो वारयामास वै पुनः ॥ 3-137-25(21133)
अशक्योऽर्थः समारब्धो नैतद्बुद्धिकृतं तव।
प्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते ॥ 3-137-26(21134)
यवक्रीत उवाच। 3-137-27x(2203)
न चैतदेवं क्रियते देवराजसमीप्सितम्।
महता नियमेनाहं तप्स्ये घोरतरं तपः ॥ 3-137-27(21135)
समिद्धेऽग्नावुपकृत्याङ्गमङ्गं
होष्यामि वा मघवंस्तन्निबोध।
यद्येतदेवं न करोषि कामं
ममेप्सितं देवराजेह सर्वम् ॥ 3-137-28(21136)
लोमश उवाच। 3-137-29x(2204)
निश्चयं तमभिज्ञाय मुनेस्तस्य महात्मनः।
प्रतिवारणहेत्वर्थं बुद्ध्या संचिन्त्य बुद्धिमान् ॥ 3-137-29(21137)
तत इन्द्रोऽकरोद्रूपं ब्राह्मणस्य तपस्विनः।
अनेकशतवर्षस्य दुर्बलस्य सयक्ष्मणः ॥ 3-137-30(21138)
यवक्रीतस्य यत्तीर्थमुचितं शैचकर्मणि।
भागीरथ्यां तत्र सेतुं वालुकाभिश्चकार सः ॥ 3-137-31(21139)
यदाऽस्य वदतो वाक्यं न स चक्रे द्विजोत्तमः।
वालुकाभिस्ततः शक्रो गङ्गां समभिपूरयन् ॥ 3-137-32(21140)
वालुकामुष्टिमनिशं भागीरथ्यां व्यसर्जयत्।
स्नातुमभ्यागतं शक्रो यवक्रीतमदर्शयत् ॥ 3-137-33(21141)
तं ददर्श यवक्रीतो यत्नवन्तं निबन्धने।
प्रहसंश्चाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः ॥ 3-137-34(21142)
किमिदं वर्तते ब्रह्मन्किंच ते ह चिकीर्षितम्।
अतीव हि महान्यत्नः क्रियतेऽयं निरर्थकः ॥ 3-137-35(21143)
इन्द्र उवाच। 3-137-36x(2205)
बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति।
क्लिश्यते हि जनस्तात तरमाणः पुनःपुनः ॥ 3-137-36(21144)
यवक्रीत उवाच। 3-137-37x(2206)
नायं शक्यस्त्वया बद्धुं महानोघस्तपोधन।
अशक्याद्विनिवर्तस्व शक्यमर्थं समारभ ॥ 3-137-37(21145)
इन्द्र उवाच। 3-137-38x(2207)
यथैव भवता चेद तपो वेदार्थमुद्यतम्।
अशक्यं तद्वदस्माभिरयं भारः समाहितः ॥ 3-137-38(21146)
यवक्रीत उवाच। 3-137-39x(2208)
यथा तव निरर्थोऽयमारम्भस्त्रिदशेश्वर।
तथा यदि ममापीदं मन्यसे पाकशासन ॥ 3-137-39(21147)
क्रियतां यद्भवेच्छक्यं त्वया सुरगणेश्वर।
वरांश्च मे प्रयच्छान्यासन्यैर्विद्वान्भवितास्म्यहम् ॥ 3-137-40(21148)
लोमश उवाच। 3-137-41x(2209)
तस्मै प्रादाद्वरानिन्द्र उक्तवान्यान्महातपाः।
प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः ॥ 3-137-41(21149)
यच्चान्यत्काङ्क्षसे कामं यवक्रीर्गम्यतामिति।
स लब्धकाम पितरं समेत्याथेदमब्रवीत् ॥ 3-137-42(21150)
यवक्रीत उवाच। 3-137-43x(2210)
प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः।
अपि चान्यान्भविष्यावो वरा लब्धास्तथा मया ॥ 3-137-43(21151)
भरद्वाज उवाच। 3-137-44x(2211)
दर्पस्ते भविता तात वराँल्लब्ध्वा यथेप्सितान्।
स दर्पपर्णः कृपणः क्षिप्रमेव विनङ्क्ष्यसि ॥ 3-137-44(21152)
अत्राप्युदाहरन्तीमा गाथा देवैरुदाहृताः।
मुनिरासीत्पुरा पुत्र बालधिर्नाम विश्रुतः ॥ 3-137-45(21153)
स पुत्रशोकादुद्विग्रस्तपस्तेपे सुदुष्करम्।
भवेन्मम सुतोऽमर्त्य इतितं लब्धवांश्च सः ॥ 3-137-46(21154)
तस्य प्रसादो वै देवैः कृतो न त्वमरैः समः।
नामर्त्यो विद्यते मर्त्यो निमित्तायुर्भविष्यति ॥ 3-137-47(21155)
बालधिरुवाच। 3-137-48x(2212)
यथेमे पर्वताः शश्वत्तिष्ठन्ति सुरसत्तमाः।
तावज्जीवेन्मम् सुतो निर्वाणमुत मे मतः ॥ 3-137-48(21156)
भरद्वाज उवाच। 3-137-49x(2213)
तस्य पुत्रस्तदा जत्रे मेधावी क्रोधनस्तदा।
स तु लब्धवरो दर्पादृषींश्चैवावमन्यत ॥ 3-137-49(21157)
विकुर्वाणो मुनीनां च व्यचरत्स महीमिमाम्।
आससाद महावीर्यं धनुषाक्षं मनीषिणम् ॥ 3-137-50(21158)
तस्यापचक्रे मेधावी तं शशाप स वीर्यवान्।
भव भस्मेति चोक्तः स न भस्म समपद्यत ॥ 3-137-51(21159)
धनुषाक्षस्तु तं दृष्ट्वा मेधाविनमनामयम्।
`मुनिस्तत्कारणं ज्ञात्वा स्वयं महिषरूपधृत्।
शृङ्गेणाद्रीनचलयत्ततोऽयंभस्मसादभूत्' ॥ 3-137-52(21160)
निमित्तमस्य महर्षिर्भेदयामास पर्वतान्।
स निमित्ते विनष्टे तु ममार सहसा शिशुः ॥ 3-137-53(21161)
तं मृतं पुत्रमादाय विललाप ततः पिता ॥ 3-137-54(21162)
लालप्यमानं तं दृष्ट्वा मुनयः परमार्तवत्।
ऊचुर्वेदविदः सर्वै गाथां यां तां निबोध मे ॥ 3-137-55(21163)
न दिष्टमर्थमत्येतुमीशोऽमर्त्यः कथंचन।
महर्षिर्भेदयामास धनुषाक्षो महीधरान् ॥ 3-137-56(21164)
एवं लब्ध्वा वरान्बाला दर्पपूर्णास्तपस्विनः।
क्षिप्रमेव विनश्यन्ति यथा न स्यात्तथा भवान् ॥ 3-137-57(21165)
एष रैभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ।
तं यथा पुत्र नाभ्येषि तथा कुर्यास्त्वतन्द्रितः ॥ 3-137-58(21166)
स हि क्रुद्धः समर्थस्त्वां पुत्र पीडयितुं रुषा।
रैभ्यश्चापि तपस्वी च कोपनश्च महानृषिः ॥ 3-137-59(21167)
यवक्रीत उवाच। 3-137-60x(2214)
एव करिष्ये मा तापं तात कार्षीः कथंचन।
यथा हि मे भवान्मान्यस्तथा रैभ्यः पिता मम ॥ 3-137-60(21168)
लोमश उवाच। 3-137-61x(2215)
उक्त्वा स पितरं श्लक्ष्ण यवक्रीरकुतोभयः।
विप्रकुर्वन्नृषीनन्यानतुष्यत्परया मुदा ॥ 3-137-61(21169)

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि सप्तत्रिंशदधिकशततमोऽध्यायः ॥ 137 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-137-1 मधुविलेति अष्टावकाङ्गसमीकरणात्पूर्वं समंगाया एव नाम मधुवहानामेति क.ध. पाठः ॥ 3-137-3 अन्नं ब्रह्मौदनम् अदितिः पुत्रकामा। साध्येभ्यो देवेभ्यो ब्रह्मौदनमपचदिति श्रुतेः ॥ 3-137-4 अयशस्यां अयशस्करीम्। असंशब्द्यां अकीर्तनीयाम्। अयशस्यामसह्यां च अलक्ष्मीं इति ध. पाठः ॥ 3-137-14 इतरो भरद्वाजस्तपस्व्येव नतु शिष्यादिसंपन्नः। कीर्तिर्बाल्यात्प्रभृति भारत इति झ. पाठः ॥ 3-137-20 सर्वज्ञानानि सर्वशास्त्राणि 3-137-22 विघातेन आत्मनाशनेन ॥ 3-137-26 न प्रतिभास्यन्तीति नकारावृत्त्या योज्यम् ॥ 3-137-46 अमर्त्यः अमर इत्यर्थः ॥ 3-137-48 अक्षयास्तन्निमित्तं मे सुतस्यायुर्भवेर्द्ध्रुवम्। इति झ. ध. पाठः ॥ 3-137-52 निमित्तं पर्वतान्भेदयामासखण्डयामास ॥ 3-137-55 दिष्टं दैवविहितम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.